कोली

सुधाव्याख्या

कोलति घनीभवति । कुल संस्त्याने' (भ्वा० प० से०) । अच् (३.१.१३४) । गौरादिङीष् (४.१.४१) । मुकुटस्तु – इन् (उ० ४.११८) प्रत्यये वा ङीष् (ग० ४.१.४५) – इत्याह । तन्न । कोल्याः फले अण् (४.३.१३४) लुको: (४.३.१६४) ङीषो लुकि (१.२.४९) च ‘कोलि' इति रूपापत्तेः । (‘कोलम्' इति रूपानुपपत्तेः) ॥ इनि (उ० ४.११८) (कोलिः) ह्रस्वान्तोऽपि ॥ कौ वलति । ‘वल प्राणने' (भ्वा० प० से०) । अच् (३.१.१३४) । कुवलीशब्दोऽप्यत्र ॥