अमरकोशः


श्लोकः

सप्तपर्णे विशालत्वक् शारदो विषमच्छदः । आरग्वधे राजवृक्षसंपाकचतुरङ्गुलाः ॥ २३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सप्तपर्ण सप्तपर्णः पुंलिङ्गः काण्डे काण्डे सप्त पर्णान्यस्य ॥ बहुव्रीहिः समासः अकारान्तः
2 विशालत्वच् विशालत्वक् पुंलिङ्गः विशाला त्वगस्य ॥ बहुव्रीहिः समासः चकारान्तः
3 शारद शारदः पुंलिङ्गः, स्त्रीलिङ्गः शरदि पुष्प्यति । अण् तद्धितः अकारान्तः
4 विषमच्छद विषमच्छदः पुंलिङ्गः विषमाश्छदा यस्य ॥ बहुव्रीहिः समासः अकारान्तः
5 आरग्वध आरग्वधः पुंलिङ्गः आरगं रोगशङ्कामपि हन्ति । अण् कृत् अकारान्तः
6 राजवृक्ष राजवृक्षः पुंलिङ्गः राजा चासौ वृक्षश्च । अकारान्तः
7 संपाक संपाकः पुंलिङ्गः सम्क् पाकोऽस्य । बहुव्रीहिः समासः अकारान्तः
8 चतुरङ्गुल चतुरङ्गुलः पुंलिङ्गः चतस्रोऽङ्गुलय: प्रमाणमस्य पर्वणः । बहुव्रीहिः समासः अकारान्तः