शारदः

सुधाव्याख्या

शरदि पुष्प्यति । ‘कालात्साधुपुष्प्यत् -' (४.३.४३) इत्यण् ॥ शारदी ङ्यन्ताऽपि । शारदी तोयपिप्पल्यां सप्तपर्णे च शारदी' इति दन्त्यान्तेषु रुद्रः । ‘शारदोऽब्दे, स्त्रियां तोयपिप्पलीसप्तपर्णयोः । सस्ये क्लीबं, शरज्जातनूतनाप्रतिभे त्रिषु' इति मेदिनी' ॥