राजवृक्षः

सुधाव्याख्या

राजा चासौ वृक्षश्च । वृक्षाणां राजा । राजदन्तादिः (२.२.३१) इति वा । रोगाणां राजानं वृश्चति, इति वा । 'ओव्रश्चू छेदने' (तु० प० से०) । बाहुलकात् सक् ।