आरगिति । आ रगणम् । ‘रगे शङ्कायाम् । सम्पदादिः (वा० ३.३.१०८) । आरगं रोगशङ्कामपि हन्ति । ‘कर्मण्यण् (३.२.१) । ‘बहुलं तणि' (वा० २.४.५४) इति हन्तेर्वधोऽदन्तः ॥ ‘ण्यल्लोपौ' (वा० ६.४.४८) इत्यल्लोपः । ‘रञ्ज रागे (भ्वा०, दि० उ० अ०) । सम्पदादिः (वा० ३.३.१०८) । आरजं रोगरागमपि हन्ति । यत्तु मुकुटः - आ समन्तात् । रुजं वधति छिनत्ति । ‘वध छेदनसेवनपूरणेषु' । पृषोदरादिः (६.३.१०९) – इत्याह । तन्न । उक्तधातो: पाणिनीये कुत्राप्यदर्शनात् । यत्तु-वधिः प्रकृत्यन्तरम् इति ‘जनिवध्योश्च (७.३.३५) इति सूत्रेऽपि वृत्तिः । तन्न । मुनित्रयविरोधात्, इति प्रपञ्चतं मनोरमामण्डने । यदपि स्वामिनोक्तम् - आ समन्ताद् रुजां वधोऽत्र – इति । तदपि न । व्यधिकरणबहुव्रीहित्व-पृषोदरादित्वकल्पनप्रसङ्गात् (६.३.१०९) । त्र्यच्कोऽपि ह्रस्वादिरपि । 'आरग्वधोऽथ सम्पाक: कृतमालस्तथार्ग्वधः' इति रत्नकोषात् ।