अमरकोशः


श्लोकः

काक्षी मृत्स्ना तुवरिका मृतालकसुराष्ट्रजे । कुटन्नटं दाशपुरं वानेयं परिपेलवम् ॥ १३१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 काक्षी काक्षी स्त्रीलिङ्गः कक्षे भवा । अण् तद्धितः ईकारान्तः
2 मृत्स्ना मृत्स्ना स्त्रीलिङ्गः मृत्स्नाऽस्त्यस्याः क्षेत्रत्वेन । अच् तद्धितः आकारान्तः
3 तुवरिका तुवरिका स्त्रीलिङ्गः तुवरोऽस्त्यस्याः । ठन् तद्धितः आकारान्तः
4 मृत्तालक मृतालकम् नपुंसकलिङ्गः मृतमालयति । अण् कृत् अकारान्तः
5 सुराष्ट्रज सुराष्ट्रजम् नपुंसकलिङ्गः सुराष्ट्रे जातम् । कृत् अकारान्तः
6 कुटन्नट कुटन्नटम् नपुंसकलिङ्गः कुटन् वक्रीभवन् नटति । अच् कृत् अकारान्तः
7 दाशपुर दाशपुरम् नपुंसकलिङ्गः दाशान् कैवर्तान् पिपर्ति । कृत् अकारान्तः
8 वानेय वानेयम् नपुंसकलिङ्गः वने पानीये जायते । ढक् तद्धितः अकारान्तः
9 परिपेलव परिपेलवम् नपुंसकलिङ्गः परितः पेलवं मृदु ॥ बहुव्रीहिः समासः अकारान्तः