दाशपुरम्

सुधाव्याख्या

दाशान् कैवर्तान् पिपर्ति । ‘पॄ पालनपूरणयोः' (जु० प० से०) । मूलविभुजादित्वात् । (वा० ३.२.५) कः ॥ ‘दशपूरम्' इति ‘दशपुरं' इति च क्वचित् पाठः । दश पूरयति । ‘पुर पूर्तौ । ‘कर्मण्यण्' (३.२.१) । यत्तु–दश पूरयति इति विगृह्य इगुपधत्वात् (३.१.१३५) ‘कः'-इत्याह मुकुटः । तन्न । ‘णिजन्तस्येगुपधत्वाभावात् । अकारान्निरुपपदात्सोपपदो विप्रतिषेधेन' (३.२.१) इति वार्तिकाद् अण् प्रसङ्गाच्च ॥ दश पुरोऽस्याः ‘ऋक्पूरब्धूर्-' (५.४.७४) इति समासान्तः । ‘दशपूरं दशपुरं प्लवनं जीविताह्वयम्' इति वाचस्पतिः ॥


प्रक्रिया

धातुः - पॄ पालनपूरणयोः


दाश + शस् + पॄ + क - कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम् (3.2.5) । वार्तिकम् ।
दाश + पॄ + क - सुपो धातुप्रातिपदिकयोः 2.4.71
दाश + पॄ + अ - तद्धितेष्वचामादेः 7.2.117
दाश + पुर् + अ - उदोष्ठ्यपूर्वस्य 7.1.102
दाशपुर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
दाशपुर + अम् - अतोऽम् 7.1.24
दाशपुरम् - अमि पूर्वः 6.1.107