वानेयम्

सुधाव्याख्या

वने पानीये जायते । ‘नन्द्यादित्वात्’ (४.३.९७) ढक् ॥ वन्यं च । ‘परिपेलवं प्लवं वन्यं तत् कुटन्नटसंज्ञकम् । जायते मण्डूकाकारं शैवालदलसंचये । कैवर्तीमुस्तके क्लीबं शोणके वा कुटन्नटः' इत्यजयः ॥