मृतालकम्

सुधाव्याख्या

मृतमालयति । ‘अल भूषणादौ' (भ्वा० प० से०) । ण्यन्तः । अण् (३.२.१) । ‘संज्ञायां कन्’ (५.३.७५) ॥ अजिता तुवरा स्तुत्या मृत्स्ना मृत्तालकम्’ इति कोशाद् द्वितकारं च । मृदि तालः प्रतिष्ठास्य ॥


प्रक्रिया

धातुः - अलँ भूषणपर्याप्तिवारणेषु


अल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अल् + णिच् - हेतुमति च 3.1.26
अल् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
आल् + इ - अत उपधायाः 7.2.116
मृत + अम् + आल् + इ + अण् - कर्मण्यण् 3.2.1, उपपदमतिङ् 2.2.19
मृत + आल् + इ + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
मृत + आल् + अण् - णेरनिटि 6.4.51
मृत + आल् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
मृताल - अकः सवर्णे दीर्घः 6.1.101
मृताल + सु + कन् - संज्ञायां कन् 5.3.75
मृताल + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
मृताल + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
मृतालक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मृतालक + अम् - अतोऽम् 7.1.24
मृतालकम् - अमि पूर्वः 6.1.107