अमरकोशः


श्लोकः

पृथ्वीका चन्द्रबालैला निष्कुटिर्बहुलाऽथ सा । सूक्ष्मोपकुञ्चिका तुत्था कोरङ्गी त्रिपुटा त्रुटि: ॥ १२५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पृथ्वीका पृथ्वीका स्त्रीलिङ्गः प्रथते । ईकन् उणादिः आकारान्तः
2 चन्द्रबाला चन्द्रबाला स्त्रीलिङ्गः चन्द्रस्य कर्पूरस्य बालेव । तत्पुरुषः समासः आकारान्तः
3 एला एला स्त्रीलिङ्गः एलयति । अच् कृत् आकारान्तः
4 निष्कुटि निष्कुटिः स्त्रीलिङ्गः निश्चिता कुटि: कौटिल्यमस्याः । बहुव्रीहिः समासः इकारान्तः
5 बहुला बहुला स्त्रीलिङ्गः बहूनि बीजानि लाति । तत्पुरुषः समासः आकारान्तः
6 उपकुञ्चिका उपकुञ्चिका स्त्रीलिङ्गः उपकुञ्चति । ण्वुल् कृत् आकारान्तः
7 तुत्था तुत्था स्त्रीलिङ्गः तुदति । थक् उणादिः आकारान्तः
8 कोरङ्गी कोरङ्गी स्त्रीलिङ्गः कुरति । अङ्गच् बाहुलकात् ईकारान्तः
9 त्रिपुटा त्रिपुटा स्त्रीलिङ्गः त्रयः पुटा यस्याः । बहुव्रीहिः समासः आकारान्तः
10 त्रुटि त्रुटिः स्त्रीलिङ्गः त्रुटति । इन् उणादिः इकारान्तः