निष्कुटिः

सुधाव्याख्या

निश्चिता कुटि: कौटिल्यमस्याः । निष्क्रान्ता कुटेर्वा ॥ ‘कृदिकारात्-' (ग० ४.१.४५) इति वा ङीष् । (निष्कुटी) ॥


प्रक्रिया

निस् + कुटि + सु - प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (2.2.24) । वार्तिकम् ।
निस् + कुटि - सुपो धातुप्रातिपदिकयोः 2.4.71
निष्कुटि - आदेशप्रत्यययोः 8.3.59
निष्कुटि + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
निष्कुटि + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
निष्कुटि + रु - ससजुषो रुः 8.2.66
निष्कुटि + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
निष्कुटि - खरवसानयोर्विसर्जनीयः 8.3.15