उपकुञ्चिका

सुधाव्याख्या

अथेति । उपकुञ्चति । ‘कुञ्च कौटिल्याल्पीभावयो:' (भ्वा० प० स०) । ण्वुल् (३.१.१३३) ॥


प्रक्रिया

धातुः - कुन्चँ गतिकौटिल्याल्पीभावयोः


उप + कुञ्च् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उप + कुञ्च् + ण्वुल् - ण्वुल्तृचौ 3.1.133
उप + कुञ्च् + वु - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
उप + कुञ्च् + अक - युवोरनाकौ 7.1.1
उपकुञ्चक + टाप् - अजाद्यतष्टाप् 4.1.4
उपकुञ्चक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
उपकुञ्चका - अकः सवर्णे दीर्घः 6.1.101
उपकुञ्चिका - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44
उपकुञ्चिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
उपकुञ्चिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उपकुञ्चिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68