बहुला

सुधाव्याख्या

बहूनि बीजानि लाति । ‘आतोऽ नुप-' (३.२.३) इति कः । ‘बहुला नीलिकायां स्यादेलायां गवि योषिति । कृत्तिकासु स्त्रियां भूम्नि विहायसि नपुंसकम् । पुंस्यग्नौ कृष्णपक्षे च वाच्यवत्प्राज्यकृष्णयोः' (इति मेदिनी) ॥