अमरकोशः


श्लोकः

एलावालुकमैलेयं सुगन्धि हरिबालुकम् । बालुकं चाथ पालङ्क्यां मुकुन्दः कुन्दकुन्दुरू ॥ १२१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 एलावालुक एलावालुकम् नपुंसकलिङ्गः एला एव बलति । तत्पुरुषः समासः अकारान्तः
2 ऐलेय ऐलेयम् नपुंसकलिङ्गः इलाया अपत्यम् । ढक् तद्धितः अकारान्तः
3 सुगन्धि सुगन्धिः नपुंसकलिङ्गः शोभनो गन्धोऽस्य । बहुव्रीहिः समासः इकारान्तः
4 हरिवालुक हरिवालुकम् नपुंसकलिङ्गः हरिवर्णं बालुकम् ॥ तत्पुरुषः समासः अकारान्तः
5 बालुक बालुकम् नपुंसकलिङ्गः उण् बाहुलकात् अकारान्तः
6 पालङ्की पालङ्क्या स्त्रीलिङ्गः पाला अङ्क्यते । तत्पुरुषः समासः ईकारान्तः
7 मुकुन्द मुकुन्दः पुंलिङ्गः मुक्तिं ददाति । तत्पुरुषः समासः अकारान्तः
8 कुन्द कुन्दः पुंलिङ्गः कुं भूमिमुनत्ति । तत्पुरुषः समासः अकारान्तः
9 कुन्दुरु कुन्दुरुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कुमुनत्ति । तत्पुरुषः समासः उकारान्तः