कुन्दुरुः

सुधाव्याख्या

कुमुनत्ति । उन्दयति वा । ‘जत्र्वादयश्च (उ० ४.१०२) इति साधुः ॥


प्रक्रिया

उन्द् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कु + अम् + उन्द् + अण् - उपपदमतिङ् 2.2.19, कर्मण्यण् 3.2.1
कु + उन्द् + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
कु + उन्द् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कुन्द - शकन्ध्वादिषु पररूपं वक्तव्यम् (6.1.94) । वार्तिकम् ।
कुन्दुरु - जत्र्वादयश्च (४.१०२) । उणादिसूत्रम् ।
कुन्दुरु + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कुन्दुरु + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कुन्दुरु + रु - ससजुषो रुः 8.2.66
कुन्दुरु + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कुन्दुरुः - खरवसानयोर्विसर्जनीयः 8.3.15