एलावालुकम्

सुधाव्याख्या

एलेति । एलयति । ‘इल प्रेरणे' (चु०प० से०) । पचाद्यच् (३.१.१३४) । टाप् (४.१.४) । एला एव बलति । बल प्राणने (भ्वा० प० से०) । बाहुलकादुण् । स्वार्थे कन् (५.३.७५) ॥ ‘एलबालुकम्' इति स्वामी । तत्र ‘ङ्यापोः-' (६.३.६३) इति ह्रस्वः ॥


प्रक्रिया

धातुः - इलँ प्रेरणे , बलँ प्राणने धान्यावरोधने च


इलँ प्रेरणे
इल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
इल् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
इल् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
एल - पुगन्तलघूपधस्य च 7.3.86
एला + टाप् - अजाद्यतष्टाप्‌ 4.1.4
एला + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
एला - अकः सवर्णे दीर्घः 6.1.101
बलँ प्राणने धान्यावरोधने च
बल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
एला + सु + बल् + उण् - उपपदमतिङ् 2.2.19, बाहुलकात् ।
एला + बल् + उण् - सुपो धातुप्रातिपदिकयोः 2.4.71
एला + बल् + उ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
एला + बालु - अत उपधायाः 7.2.116
एलाबालु + सु + कन् - संज्ञायां कन् 5.3.75
एलाबालु + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
एलाबालु + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
एलाबालुक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
एलाबालुक + अम् - अतोऽम् 7.1.24
एलाबालुकम् - अमि पूर्वः 6.1.107