अमरकोशः


श्लोकः

गोधापदी तु सुवहा मुसली तालमूलिका । अजशृङ्गी विषाणी स्यागोजिह्वादार्विके समे ॥ ११९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गोधापदी गोधापदी स्त्रीलिङ्गः गोधाया इव पादो मूलमस्याः । बहुव्रीहिः समासः ईकारान्तः
2 सुवहा सुवहा स्त्रीलिङ्गः सुवहति । अच् कृत् आकारान्तः
3 मुसली मुसली स्त्रीलिङ्गः मुस्यति । कल उणादिः ईकारान्तः
4 तालमूलिका तालमूलिका स्त्रीलिङ्गः तालो मूलमस्या: । बहुव्रीहिः समासः आकारान्तः
5 अजशृङ्गी अजशृङ्गी स्त्रीलिङ्गः अजः शृङ्गमस्याः । बहुव्रीहिः समासः ईकारान्तः
6 विषाणी विषाणी स्त्रीलिङ्गः फलस्याजशृङ्गसदृशत्वात् विषाणमस्त्यस्याः । अच् तद्धितः ईकारान्तः
7 गोजिह्वा गोजिह्वा स्त्रीलिङ्गः गोजिह्वेव ॥ बहुव्रीहिः समासः आकारान्तः
8 दर्विका दर्विका स्त्रीलिङ्गः दर्वीव । कन् तद्धितः आकारान्तः