विषाणी

सुधाव्याख्या

फलस्याजशृङ्गसदृशत्वात् विषाणमस्त्यस्याः । अर्शआद्यच् (५.२.११५) । गौरादिङीष् (४.१.४१) । ‘विषाणी क्षीरकाकोल्यामजशृङ्गयां च योषिति । कुष्ठनामौषधे क्लीबं त्रिषु शृङ्गेभदन्तयोः' (इति मेदिनी) ।