तालमूलिका

सुधाव्याख्या

तालो मूलमस्या: । तालशब्दस्तालमूलसदृशे लाक्षणिकः। ‘पाककर्ण-' (४.१.६४) इति ङीष् । स्वार्थे कन् (५.३.७५) ॥


प्रक्रिया

ताल + सु + मूल + सु - अनेकमन्यपदार्थे 2.2.24
ताल + मुल - सुपो धातुप्रातिपदिकयोः 2.4.71
तालमूल + ङीष् - पाककर्णपर्णपुष्पफलमूलबालोत्तरपदाच्च 4.1.64
तालमूल + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
तालमूल् + ई - यस्येति च 6.4.148
तालमूली + सु + कन् - संज्ञायां कन् 5.3.75
तालमूली + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
तालमूली + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
तालमूलिक - केऽणः 7.4.13
तालमूलिक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
तालमूलिक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
तालमूलिका - अकः सवर्णे दीर्घः 6.1.101
तालमूलिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
तालमूलिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तालमूलिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68