दर्विका

सुधाव्याख्या

दर्वीव । ‘इवे प्रतिकृतौ' (५.३.९६) इति कन् ॥ ‘दार्विका' इति पाठे दारयति । ‘दॄ विदारणे (क्र्या० प० से०) । उल्वादित्वात् (उ० ४.९५) साधुः । ‘दार्वी दारुहरिद्रायां तथा गोजिह्विकौषधौ (इति मेदिनी) ॥