अमरकोशः


श्लोकः

लाङ्गली शारदी तोयपिप्पली शकुलादनी । खराश्वा कारवी दीप्यो मयूरो लोचमस्तकः ॥ १११ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 लाङ्गली लाङ्गली स्त्रीलिङ्गः लाङ्गलाकारोऽस्त्यस्याः । अच् तद्धितः ईकारान्तः
2 शारदी शारदी स्त्रीलिङ्गः शरदि भवा । अण् तद्धितः ईकारान्तः
3 तोयपिप्पली तोयपिप्पली स्त्रीलिङ्गः तोयस्य पिप्पलीव ॥ तत्पुरुषः समासः ईकारान्तः
4 शकुलादनी शकुलादनी स्त्रीलिङ्गः शकुलैरद्यते । ल्युट् कृत् ईकारान्तः
5 खराश्वा खराश्वा स्त्रीलिङ्गः खरमश्नुते । तत्पुरुषः समासः आकारान्तः
6 कारवी कारवी स्त्रीलिङ्गः केन जलेन रौति । तत्पुरुषः समासः ईकारान्तः
7 दीप्य दीप्यः पुंलिङ्गः दीपनम् । घञ् कृत् अकारान्तः
8 मयूर मयूरः पुंलिङ्गः मीनाति रोगम् । ऊरन् उणादिः अकारान्तः
9 लोचमस्तक लोचमस्तकः पुंलिङ्गः लोच्यते । घञ् कृत् अकारान्तः