मयूरः

सुधाव्याख्या

मीनाति रोगम् । 'मीञ् हिंसायाम्' (क्र्या० उ० अ०) । ‘मीनातेरूरन्’ (उ० १.६७) । मुकुटस्तु — मिनोति प्रक्षिपत्यग्निमान्द्यमिति खर्जूरादित्वात् ऊरच् – इत्याह । तन्मदम् । ‘मीनातेरूरन्' इति सूत्रस्य सत्त्वात् । ‘मयूरो नीलकण्ठेऽपि स्यान्मयूरशिखौषधौ' इति रभसः ॥