लोचमस्तकः

सुधाव्याख्या

लोच्यते । ‘लोचृ दर्शने’ (भ्वा० आ० से०) । घञ् (३.३.१९) । यद्वा लोचयति । ‘लोचृ भासने’ (चु० उ० से०) । पचाद्यच् (३.१.१३४) । लोचो दर्शनीयो भासमानो वा मस्तकोऽस्य । मुकुटस्तु – लुच्यते इति विगृहीतवान् । तन्न । ‘लुञ्च अपनयने (भ्वा० प० से०) । अस्मात् घञि नलोपविधायकाभावात् । ‘लोचमर्कटः' इत्यपि – इति स्वामी ॥