कारवी

सुधाव्याख्या

केन जलेन रौति । ‘रु शब्दे' (अ० प० अ०) । पचाद्यच् (३.१.१३४) । करवस्य मसूरस्येयम् । ‘तस्येदम्' (४.३.१२०) इत्यण् । यत्तु-कारोरियम्, कारवस्येयं वा - इति व्याख्यातं मुकुटेन । तन्न । वृद्धत्वाच्छप्रसङ्गत्वात् । ‘कारवी मधुरादीप्यत्वक्पत्रीकृष्णजीरके' (इति मेदिनी) ॥


प्रक्रिया

धातुः - रु शब्दे


रु + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
रु + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
रो + अ - सार्वधातुकार्धधातुकयोः 7.3.84
रव् + अ - एचोऽयवायावः 6.1.78
क + टा + रव + सु - उपपदमतिङ् 2.2.19
क + रव - सुपो धातुप्रातिपदिकयोः 2.4.71
करव + ङस् + अण् - तस्येदम् 4.3.120
करव + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
करव + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
करव् + अ - यस्येति च 6.4.148
कारव - तद्धितेष्वचामादेः 7.2.117
कारव + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
कारव + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
कारव् + ई - यस्येति च 6.4.148
कारवी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कारवी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कारवी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68