अमरकोशः


श्लोकः

काला मसूरविदलार्धचन्द्रा कालमेषिका । मधुकं क्लीतकं यष्टीमधुकं मधुयष्टिका ॥ १०९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 काला काला स्त्रीलिङ्गः कालयति । अच् कृत् आकारान्तः
2 मसूरविदला मसूरविदला स्त्रीलिङ्गः मसूरवद् विदलमस्याः ॥ बहुव्रीहिः समासः आकारान्तः
3 अर्धचन्द्रा अर्धचन्द्रा स्त्रीलिङ्गः अर्धश्चन्द्रो यस्याः । बहुव्रीहिः समासः आकारान्तः
4 कालमेषिका कालमेषिका स्त्रीलिङ्गः कालं मिषति । तत्पुरुषः समासः आकारान्तः
5 मधुक मधुकम् नपुंसकलिङ्गः मध्विव । कन् तद्धितः अकारान्तः
6 क्लीतक क्लीतकम् नपुंसकलिङ्गः क्लीबनम् । क्त कृत् अकारान्तः
7 यष्टीमधुक यष्टीमधुकम् नपुंसकलिङ्गः यष्टी मध्विवास्याः । कप् तद्धितः अकारान्तः
8 मधुयष्टिका मधुयष्टिका स्त्रीलिङ्गः मधुयष्टीव । कन् तद्धितः आकारान्तः