काला

सुधाव्याख्या

कालयति । 'कल विल क्षेपे (चु० प० से०) । ण्यन्तः । पचाद्यच् (३.१.१३४) ॥


प्रक्रिया

धातुः - कलँ क्षेपे


कल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कल् + णिच् - सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 3.1.25
कल् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
काल् + इ - अत उपधायाः 7.2.116
काल् + इ + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
काल् + अच् - णेरनिटि 6.4.51
काल् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
काल + टाप् - अजाद्यतष्टाप्‌ 4.1.4
काल + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
काला - अकः सवर्णे दीर्घः 6.1.101
काला + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
काला + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
काला - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68