क्लीतकम्

सुधाव्याख्या

क्लीबनम् । ‘क्लीबृ अधार्ष्ट्ये' (भ्वा० आ० से०) । भावे क्त: (३.३.११४) । आगमशासनमनित्यम् । क्लीतमधार्ष्ट्यं कलति । 'कल क्षेपे' (चु० प० से०) । 'चुरादिभ्यो णिज्वा' इति णिजभावः । ‘अन्येभ्योऽपि' (वा० ३.२.१०१) इति डः । यत्तु–‘क्लीबृ मदे' इत्युक्तं मुकुटेन । तत् ‘क्षीबृ मदे' इत्यस्य भ्रमात् । यद्वा सम्पदादि क्विप् (वा० ३.३.१०८) । बाहुलकाद्बलोपः । क्लीं क्लीबत्वं तकति । वृष्यत्वात् । ‘तक हसने (भ्वा० प० से०) । मूलविभुजादि कः (वा० ३.२.५) ॥


प्रक्रिया

धातुः - क्लीबृँ अधार्ष्ट्ये , कलँ क्षेपे


क्लीबृँ अधार्ष्ट्ये
क्लीब् उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
क्लीब् + क्त - नपुंसके भावे क्तः 3.3.114
क्लीब् + त - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
क्लीत - बाहुलकात् ।
कलँ क्षेपे
कल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
क्लीत + अम् + कल् + ड - अन्येभ्योऽपि दृश्यते (3.2.101) । वार्तिकम् ।
क्लीत + कल् + ड - सुपो धातुप्रातिपदिकयोः 2.4.71
क्लीत + कल् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
क्लीत + क् + अ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
क्लीतक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
क्लीतक + अम् - अतोऽम् 7.1.24
क्लीतकम् - अमि पूर्वः 6.1.107