कालमेषिका

सुधाव्याख्या

कालं मिषति । ‘मिष स्पर्धायाम् (तु० प० से०) । ‘कर्मण्यण्’ (३.२.१) ॥


प्रक्रिया

धातुः - मिषँ स्पर्धायाम्


मिष् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
काल + अम् + मिष् + अण् - कर्मण्यण् 3.2.1, उपपदमतिङ् 2.2.19
काल + मिष् + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
काल + मिष् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
काल + मेष् + अ - पुगन्तलघूपधस्य च 7.3.86
कालमेष + सु + कन् - संज्ञायां कन् 5.3.75
कालमेष + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
कालमेष + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कालमेषक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
कालमेषक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
कालमेषका - अकः सवर्णे दीर्घः 6.1.101
कालमेषका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कालमेषका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कालमेषका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
कालमेषिका - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44