अमरकोशः


श्लोकः

ऋष्यप्रोक्ताभीरुपत्रीनारायण्यः शतावरी । अहेरुरथ पीतद्रुकालेयकहरिद्रवः ॥ १०१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ऋष्यप्रोक्ता ऋष्यप्रोक्ता स्त्रीलिङ्गः ऋष्यैः प्रोक्ता । तत्पुरुषः समासः आकारान्तः
2 अभीरुपत्री अभीरुपत्री स्त्रीलिङ्गः अभीरूणि पत्राण्यस्याः । बहुव्रीहिः समासः ईकारान्तः
3 नारायणी नारायणी स्त्रीलिङ्गः नारायणाज्जाता । अण् तद्धितः ईकारान्तः
4 शतावरी शतावरी स्त्रीलिङ्गः शतेनावृणोति । अच् कृत् ईकारान्तः
5 अहेरु अहेरुः स्त्रीलिङ्गः न हिनोति । तत्पुरुषः समासः उकारान्तः
6 पीतद्रु पीतद्रुः पुंलिङ्गः पीतं द्रवति । तत्पुरुषः समासः उकारान्तः
7 कालेयक कालेयकः पुंलिङ्गः कलेरयम् । ढक् तद्धितः अकारान्तः
8 हरिद्रु हरिद्रुः पुंलिङ्गः हरिः पिङ्गः पीतो वा द्रुरस्य । बहुव्रीहिः समासः उकारान्तः