शतावरी

सुधाव्याख्या

शतेनावृणोति । पचाद्यच् (३.१.१३४) । गौरादिः (४.१.४१) । ‘शतावरी तु शच्यां स्यादिन्दीवर्यामपि स्त्रियाम्' (इति मेदिनी) ॥


प्रक्रिया

धातुः - वृञ् वरणे


वृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
शत + सु + आङ् + वृ + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134, उपपदमतिङ् 2.2.19
शत + आङ् + वृ + अच् - सुपो धातुप्रातिपदिकयोः 2.4.71
शत + आ + वृ + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
शत + आ + वर् + अ - सार्वधातुकार्धधातुकयोः 7.3.84
शतावर - अकः सवर्णे दीर्घः 6.1.101
शतावर + ङीष् - षिद्गौरादिभ्यश्च 4.1.41
शतावर + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
शतावर् + ई - यस्येति च 6.4.148
शतावरी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
शतावरी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शतावरी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68