पीतद्रुः

सुधाव्याख्या

अथेति । पीतं द्रवति । “द्रु गतौ' (भ्वा० प० अ०) ॥ मितद्रवादित्वात् (वा० ३.२.१८०) डुः । यत्तु मुकुटेनोक्तम् ‘अपष्ट्वादयः' इति कुः – इति । तन्न । टिलोपस्यालाभात् । एतादृशसूत्राभावच्च ॥


प्रक्रिया

धातुः - द्रु गतौ


पीत + अम् + द्रु + डु - डुप्रकरणे मितद्र्वादिभ्य उपसंख्यानम् (3.2.180) । वार्तिकम् ।
पीत + द्रु + डु - सुपो धातुप्रातिपदिकयोः 2.4.71
पीत + द्रु + उ - चुटू 1.3.7, तस्य लोपः 1.3.9
पीत + द्र् + उ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
पीतद्रु + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पीतद्रु + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पीतद्रु + रु - ससजुषो रुः 8.2.66
पीतद्रु + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पीतद्रुः - खरवसानयोर्विसर्जनीयः 8.3.15