कालेयकः

सुधाव्याख्या

कलेरयम् । सर्वत्राग्निकलिभ्यां ढक्’ (वा० ४.२.८) । स्वार्थे कन् (५.३.७५) ॥ ‘कालीयकः' इति वा पाठः । कालस्य वर्णस्यायम् । ‘वृद्धाच्छ: (४.२.११४) । ‘निर्दिष्टा वै कटकिनी स च कालेयकः स्मृतः । कालीयको दारुनिशा' इति रुद्रः ॥


प्रक्रिया

कलि + ङस् + ढक् - सर्वत्राग्निकलिभ्यां ढग्वक्तव्यः (4.2.8) । वार्तिकम् ।
कलि + ढक् - सुपो धातुप्रातिपदिकयोः 2.4.71
कलि + ढ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कलि + एय् + अ - आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ 7.1.2
कल् + एय - यस्येति च 6.4.148
काल् + एय् + अ - किति च 7.2.118
कालेय + सु + कन् - संज्ञायां कन् 5.3.75
कालेय + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
कालेय + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कालेयक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कालेयक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कालेयक + रु - ससजुषो रुः 8.2.66
कालेयक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कालेयकः - खरवसानयोर्विसर्जनीयः 8.3.15