अमरकोशः


श्लोकः

छत्रातिच्छत्रपालघ्नौ मालातृणकभूस्तृणो । शष्पं बालतृणं घासो यवसं तृणमर्जुनम् ॥ १६७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 छत्त्रा छत्त्रा स्त्रीलिङ्गः छदति, छादयति, वा । ष्ट्रन् उणादिः आकारान्तः
2 अतिच्छत्र अतिच्छत्रम् नपुंसकलिङ्गः अतिक्रान्तश्छन्नम् ॥ अव्ययीभावः समासः अकारान्तः
3 पालघ्न पालघ्नः पुंलिङ्गः पालं क्षेत्रं हन्ति । ठक् कृत् अकारान्तः
4 मालातृणक मालातृणकम् नपुंसकलिङ्गः मालाकाराणि तृणान्यस्य ॥ बहुव्रीहिः समासः अकारान्तः
5 भूस्तृण भूस्तृणम् नपुंसकलिङ्गः भुवस्तृणम् । तत्पुरुषः समासः अकारान्तः
6 शष्प शष्पम् नपुंसकलिङ्गः शस्यते । उणादिः अकारान्तः
7 बालतृण बालतृणम् नपुंसकलिङ्गः बालं तृणम् ॥ तत्पुरुषः समासः अकारान्तः
8 घास घासः पुंलिङ्गः अद्यते । घञ् कृत् अकारान्तः
9 यवस यवसम् नपुंसकलिङ्गः यौति, यूयते, वा । असच् उणादिः अकारान्तः
10 तृण तृणम् नपुंसकलिङ्गः तृण्यते । घञ् कृत् अकारान्तः
11 अर्जुन अर्जुनम् नपुंसकलिङ्गः अर्ज्यते । उनन् उणादिः अकारान्तः