छत्त्रा

सुधाव्याख्या

छत्रेति । छदति, छादयति, वा । छद अपवारणे । ष्ट्रन् (उ० ४.१५९) । ‘इस्मन्त्रन्क्विषु च' (६.४.९७) इति ह्रस्वः। 'छत्रा मिसावतिच्छत्रे कुस्तुम्बुरुशिलीन्ध्रयोः - । नपुंसकं चातपत्रे (इति मेदिनी)॥


प्रक्रिया

धातुः - छदँ अपवारणे


छद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
छद् + णिच् - हेतुमति च 3.1.26
छद् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
छाद् + इ - अत उपधायाः 7.2.116
छाद् + इ + ष्ट्रन् - सर्वधातुभ्यः ष्ट्रन् (४.१५९) । उणादिसूत्रम् ।
छाद् + ष्ट्रन् - णेरनिटि 6.4.51
छाद् + त्र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9, षः प्रत्ययस्य 1.3.6
छद् + त्र - इस्मन्त्रन्क्विषु च 6.4.97
छत् + त्र - खरि च 8.4.55
छत्त्र + टाप् - अजाद्यतष्टाप्‌ 4.1.4
छत्त्र + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
छत्त्रा - अकः सवर्णे दीर्घः 6.1.101
छत्त्रा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
छत्त्रा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
छत्त्रा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68