शष्पम्

सुधाव्याख्या

शष्पमिति । शस्यते । शुष्यति, वा ‘शसु हिंसायाम्' (भ्वा० प० से) । ‘शुष शोषणे' (दि० प० अ०) वा । ‘खष्पशिल्पशष्प-' (उ० ३.२८) इति साधुः । -नीपादयः' इति पः इति मुकुटस्तु चिन्त्यः । उज्ज्वलदतादिवृत्तिषु ‘नीपादयः' इति सूत्राभावात् । 'शष्पं बालतृणे स्मृतम् । पुंसि स्यात् प्रतिमाहानौ' (इति मेदिनी) ॥


प्रक्रिया

धातुः - शसुँ हिंसायाम्


शस् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शष् + प - खष्पशिल्पशष्पबाष्परूपपर्पतल्पाः (३.२८) । उणादिसूत्रम् ।
शष्प + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
शष्प + अम् - अतोऽम् 7.1.24
शष्पम् - अमि पूर्वः 6.1.107