अर्जुनम्

सुधाव्याख्या

अर्ज्यते । ‘अर्ज अर्जने' (भ्वा० प० से०) । ‘तृणाख्यायां चित्’ (उ० ३.५९) इत्युनन् । ‘अर्जुनः ककुभे पार्थे कार्तवीर्यमयूरयोः । मातुरेकसुतेऽपि स्याद् धवले पुनरन्यवत् । नपुंसकं तृणे नेत्ररोगे स्याद् अर्जुनीगवि । उषायां बाहुदानद्यां कुट्टन्यामपि च क्वचित्’ (इति मेदिनी) ॥