अमरकोशः


श्लोकः

लामज्जकं लघुलयमवदाहेष्टकापथे । नलादयस्तृणं गर्मुच्छ्यामाकप्रमुखा अपि ॥ १६५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 लामज्जक लामज्जकम् नपुंसकलिङ्गः ला मज्जा सारोऽस्य । बहुव्रीहिः समासः अकारान्तः
2 लघुलय लघुलयम् नपुंसकलिङ्गः लघु लीयते । अच् कृत् अकारान्तः
3 अवदाह अवदाहम् नपुंसकलिङ्गः अवलीयते दाहोऽस्मात् । बहुव्रीहिः समासः अकारान्तः
4 इष्टकापथ इष्टकापथम् नपुंसकलिङ्गः इष्टं कापथमस्य । बहुव्रीहिः समासः अकारान्तः
5 तृण तृणम् नपुंसकलिङ्गः तृणजातयः । घञ् कृत् अकारान्तः
6 गर्मुत् गर्मुत् स्त्रीलिङ्गः गिरति गीर्यते वा । उति उणादिः तकारान्तः
7 श्यामाक श्यामाकः पुंलिङ्गः श्यायते । आक उणादिः अकारान्तः