अवदाहः

सुधाव्याख्या

अवलीयते दाहोऽस्मात् । – अवदीयते दाहोऽनेन, इति ‘अवदानम्' इति तु स्वामी - इति मुकुटः । तन्न । स्वामिग्रन्थेऽदर्शनात् । ‘अवदीयते दाहोऽनेन' इति स्वामिना व्याख्यातत्वाच्च केचित्तु - ‘अवदाहेष्टम्’ ‘कापथम्' इति नामद्वयमाहुः । ‘लामज्जकं लघुलयमवदाहेष्टकापथे । अवदानमिन्द्रगुप्तमवदाहेष्टकापथे' इति वाचस्पतिः ॥