लघुलयम्

सुधाव्याख्या

लङ्घते रोगान् । लङ्घयते वा भूस्थत्वात् । ‘लघि गतौ' (भ्वा० आ० से०) । ‘लङ्घिबह्योर्नलोपश्च' (उ० १.२९) । लघु लीयते । ‘लीङ् श्लेषणे' (दि० अ० अ०) । अच् (३.१.१३४) । समस्तं नाम ॥ व्यस्तमपि ‘लामज्जकं सुवासं स्यादमृणालं लयं लघु' इति सुश्रुतः । ‘लामज्जकं सुनालः स्यादमृणालं लयं लघु' ॥


प्रक्रिया

धातुः - लघिँ गतौ भोजननिवृत्तौ च , लीङ् श्लेषणे


लघिँ गतौ भोजननिवृत्तौ च
लघ् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
लन्घ् - इदितो नुम् धातोः 7.1.58
लघ् + कु - लङ्घिबंह्योर्नलोपश्च (१.२७) । उणादिसूत्रम् ।
लघ् + उ लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
लघु
लीङ् श्लेषणे
ली - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
लघु + सु + ली + अच् - उपपदमतिङ् 2.2.19, नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
लघु + ली + अच् - सुपो धातुप्रातिपदिकयोः 2.4.71
लघु + ली + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
लघु + ले + अ - सार्वधातुकार्धधातुकयोः 7.3.84
लघु + लय् + अ - एचोऽयवायावः 6.1.78
लघुलय + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
लघुलय + अम् - अतोऽम् 7.1.24
लघुलयम् - अमि पूर्वः 6.1.107