श्यामाकः

सुधाव्याख्या

श्यायते । ‘श्यैङ् गतौ' (भ्वा० आ० अ०) । ‘पिनाकादयश्च’(उ० ४.१५) इति साधुः । यद्वा श्यामं वर्णमकति । ‘अक गतौ' (भ्वा० प० से०) । अण् (३.२.१) ॥ ‘श्यामाक: श्यामकोऽपि च' इति हलायुधः । तत्र मूलविभुजादिके (वा० ३.२.५) शकन्थ्वादित्वम् (वा० ६.१.९४) बोध्यम् । यत्तु–‘श्यालूधूभ्यो मकन्'–इत्याह मुकुटः । तन्न । तस्योणादिवृत्तावदर्शनात् (साँवा इति ख्यातः) ॥ प्रमुखशब्दान्नीवाराद्याः । मुकुटस्तु - अनन्तरा: कुशादयो व्यवहिताश्च कङ्गुकोद्रवादयो गृहीताः – इत्याह । कोद्रवादीनामेवं सति हविष्यत्वापातात् ।