अमरकोशः


श्लोकः

शतपर्वा यवफलो वेणुमस्करतेजनाः । वेणव: कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः ॥ १६१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शतपर्वन् शतपर्व पुंलिङ्गः शतं पर्वाण्यस्य ॥ बहुव्रीहिः समासः नकारान्तः
2 यवफल यवफलः पुंलिङ्गः यव इव फलान्यस्य । बहुव्रीहिः समासः अकारान्तः
3 वेणु वेणुः पुंलिङ्गः वेणति । बाहुलकात् उकारान्तः
4 मस्कर मस्करः पुंलिङ्गः मस्कते, अनेन वा । अर बाहुलकात् अकारान्तः
5 तेजन तेजनः पुंलिङ्गः तेजयति शस्त्रमग्निं वा । ल्यु कृत् अकारान्तः
6 कीचक कीचकः पुंलिङ्गः चीकति । अच् कृत् अकारान्तः