मस्करः

सुधाव्याख्या

मस्कते, अनेन वा । ‘मस्क गतौ' (भ्वा० आ० से०) । बाहुलकादरः । यद्वा मङ्कते । ‘मकि मण्डने' (भ्वा० आ० से०) । अरः । आगमशास्त्रानित्यत्वान्न नुम् । ‘मस्करमस्करिणौ वेणुपरिव्राजकयो:' (६.९. १५४) इति सुट् ॥