कीचकः

सुधाव्याख्या

वेणेति । ये वेणवोऽनिलेनोद्धतास्ताडिताश्चालिता वा शब्दायन्ते । चीकति । चीकयते वा । शब्दायते । ‘चीक मर्षणे (चु० उ० से०) । ‘चीकयतेराद्यन्तविपर्ययश्च' (उ० ५.३६) इति वुन् । -पृषोदरादित्वात् (६.३.१०९) आद्यन्तविपर्ययश्च - इति मुकुटः । तद् उक्तसूत्रादर्शनमूलकम् । यद्वा ‘की' इत्यव्यक्तम् चकते । 'चक तृप्त्यादौ’ (भ्वा० आ० से०) । अच् (३.१.१३४) । ‘संज्ञायां कन्’ (५.३.७५) । क्वुन् (उ० २.३२) वा । ‘कीच' इत्यव्यक्तं कायति । मूलविभुजादिकः (वा० ३.२.५) । ‘अन्येभ्योऽपि-' (वा० ३.२.१०१) इति डो वा । 'कीचको दैत्यभिद्वाताहतसस्वनवंशयोः' (इति मेदिनी) ॥