अमरकोशः


श्लोकः

एलापर्णी तु सुवहा रास्ना युक्तरसा च सा । चाङ्गेरी चुक्रिका दन्तशठाऽम्बष्ठाऽम्ललोणिका ॥ १४० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 एलापर्णी एलापर्णी स्त्रीलिङ्गः एलाया इव पर्णान्यस्याः । बहुव्रीहिः समासः ईकारान्तः
2 सुवहा सुवहा स्त्रीलिङ्गः सुवहति । अच् कृत् आकारान्तः
3 रास्ना रास्ना स्त्रीलिङ्गः रासते । उणादिः आकारान्तः
4 युक्तरसा युक्तरसा स्त्रीलिङ्गः युक्तो रसो यस्याः ॥ बहुव्रीहिः समासः आकारान्तः
5 चाङ्गेरि चाङ्गेरी स्त्रीलिङ्गः चाङ्गमीरयति । अण् कृत् इकारान्तः
6 चुक्रिका चुक्रिका स्त्रीलिङ्गः चुक्क्यति । रन् उणादिः आकारान्तः
7 दन्तशठा दन्तशठा स्त्रीलिङ्गः दन्तानां शठा । तत्पुरुषः समासः आकारान्तः
8 अम्बष्ठा अम्बष्ठा स्त्रीलिङ्गः अम्बे तिष्ठति । कृत् आकारान्तः
9 अम्ललोणिका अम्ललोणिका स्त्रीलिङ्गः अम्लेभ्य ऊना । तत्पुरुषः समासः आकारान्तः