चुक्रिका

सुधाव्याख्या

चुक्क्यति । ‘चुक्क व्यथने' (चु० प० से०) । ‘ऋज्रेन्द्र-' (उ० २.२८) इति साधु । स्वार्थे कन् (५.३.७५) । चुक्रमिव । ‘इवे प्रतिकृतौ (५.३.९६) इति कन् वा ॥


प्रक्रिया

धातुः - चुक्कँ व्यथने


चुक्क् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चुक्क् + रन् - ऋज्रेन्द्राग्रवज्रविप्रकुव्रचुव्रक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्लगौरवम्रेरामालाः (२.२८) । उणादिसूत्रम् ।
चुक्क् + र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
चुक्क्र + सु + कन् - संज्ञायां कन् 5.3.75
चुक्क्र + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
चुक्क्रक - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
चुक्क्रक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
चुक्क्रक + आ - हलन्त्यम् 1.3.3
चुक्क्रका - अकः सवर्णे दीर्घः 6.1.101
चुक्क्रिका - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44
चुक्क्रिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
चुक्क्रिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चुक्क्रिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68