अम्ललोणिका

सुधाव्याख्या

आम्लेभ्य ऊना । स्वार्थे कन् (५.३.७५) । पृषोदरादित्वात् (६.३.१९) णः ॥


प्रक्रिया

आम्ल + भ्यस् + ऊना + सु - चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः 2.1.36
आम्ल + ऊना - सुपो धातुप्रातिपदिकयोः 2.4.71
आम्लोना - आद्गुणः 6.1.87
आम्ललोना + सु + कन् - संज्ञायां कन् 5.3.75
आम्ललोना + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
आम्ललोना + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
आम्ललोनाक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
आम्ललोनाक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
आम्ललोनाका - अकः सवर्णे दीर्घः 6.1.101
आम्ललोणिका - पृषोदरादीनि यथोपदिष्टम् 6.3.109
आम्ललोणिका - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44
आम्ललोणिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
आम्ललोणिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आम्ललोणिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68