अम्बष्ठा

सुधाव्याख्या

अम्बे तिष्ठति । सुपि-' (३.२.४) इति कः । ‘अम्बाम्ब-' (८.३.९७) इति षत्वम् । ‘अम्बष्ठी देशभेदेऽपि विप्राद्वेश्यासुतेऽपि च । अम्बष्ठाप्यम्ललोण्यां स्यात्पाठायूथिकयोरपि' (इति मेदिनी) ॥


प्रक्रिया

धातुः - ष्ठा गतिनिवृत्तौ


स्था - धात्वादेः षः सः 6.1.64, निमित्तापाये नैमित्तिकस्याप्यपायः ।
अम्ब + ङि + स्था + क - सुपि स्थः 3.2.4
अम्ब + स्था + क - सुपो धातुप्रातिपदिकयोः 2.4.71
अम्ब + स्था + अ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
अम्ब + स्थ् + अ - आतो लोप इटि च 6.4.64
अम्बष्ठ - अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः 8.3.97, ष्टुना ष्टुः 8.4.41
अम्बष्ठ + टाप् - अजाद्यतष्टाप्‌ 4.1.4
अम्बष्ठ + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
अम्बष्ठा - अकः सवर्णे दीर्घः 6.1.101
अम्बष्ठा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अम्बष्ठा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अम्बष्ठा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68