अमरकोशः


श्लोकः

ताम्रकर्णी शुभ्रदन्ती चाङ्गना चाञ्जनावती । क्लीबाव्ययं त्वपदिशं दिशोर्मध्ये विदिक् स्त्रियाम् ॥ ५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ताम्रकर्णी ताम्रकर्णी स्त्रीलिङ्गः ताम्रौ कर्णौ यस्याः । बहुव्रीहिः समासः ईकारान्तः
2 शुभ्रदन्ती शुभ्रदन्ती स्त्रीलिङ्गः शुभ्रौ दन्तावस्या । बहुव्रीहिः समासः ईकारान्तः
3 अङ्गना अङ्गना स्त्रीलिङ्गः अङ्गति। युच् उणादिः आकारान्तः
4 अञ्चनावती अञ्चनावती स्त्रीलिङ्गः अञ्जनवर्णत्वादञ्जनमस्त्यस्याः । मतुप् तद्धितः ईकारान्तः
5 अपदिश अपदिशम् स्त्रीलिङ्गः टच् तद्धितः अकारान्तः
6 विदिश् विदिश् स्त्रीलिङ्गः दिग्भ्यां विनिर्गता । अव्ययीभावः समासः शकारान्तः