अङ्गना

सुधाव्याख्या

अङ्गति । ‘अगि गतौ’ (भ्वा० प० से०) । युच् (उ० २.७८) । कल्याणान्यङ्गान्यस्याः इति वा । 'अङ्गात्कल्याणे’ (ग० ५.२.१००) इति नः ।


प्रक्रिया

धातुः - अगिँ गतौ


अग् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अ + नुट् + ग् - इदितो नुम् धातोः 7.1.58
अ + न् + ग् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अंग् - नश्चापदान्तस्य झलि 8.3.24
अङ्ग् - अनुस्वारस्य ययि परसवर्णः 8.4.58
अङ्ग् + युच् - बहुलमन्यत्रापि (२.७८) । उणादिसूत्रम् ।
अङ्ग् + यु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अङ्ग् + अन - युवोरनाकौ 7.1.1
अङ्गन + टाप् - अजाद्यतष्टाप्‌ 4.1.4
अङ्गन + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
अङ्गना - अकः सवर्णे दीर्घः 6.1.101
अङ्गना + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अङ्गना + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अङ्गना - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68