अपदिशम्

सुधाव्याख्या

क्लीबेति । क्लीबाव्ययमिति कर्मधारयोऽव्ययीभावत्वसूचनार्थ: । ‘अव्ययीभावश्च-' (१.१.४१, २.४.१८) इति सूत्राभ्यां क्लीबत्वाव्ययत्वयोर्विधानात् । तेन ‘नाव्ययीभावादतोऽम्त्वपञ्चम्याः’ (२.४.८३) इत्यादिप्रवृत्तिः । ’अप’ इति मध्यवाची । शरदादित्वात् (५.४.१०७) टच् । आबन्तेन समासे तु टज्नापेक्षितः । दिशोरिदमपदिशम्, विभक्त्यर्थेऽव्ययीभावः इति स्वामी । तन्न । सम्बन्धमात्रस्य विभक्त्यर्थत्वेऽपि मध्यस्य तदर्थत्वाभावात् ।